वैद्यनाथदीक्षितवर्यकृतस्य
स्मृतिमुक्ताफलस्य सारः
ವೈದ್ಯನಾಥದೀಕ್ಷಿತವರ್ಯಕೃತವಾದ
ಸ್ಮೃತಿಮುಕ್ತಾಫಲದ ಸಾರ
॥ श्रीगणेशाय नमः ॥ हरिः ॐ ॥
अङ्के विहारिणमनुक्षणमद्रिजायाः
तं केवलं कलभमद्भुतमाश्रयामः ।
नित्यं य एष बहुभिर्निजसेवकानां
प्रत्यूहपुञ्जकवलैः परितोषमेति ॥
ಅಙ್ಕೇ (ಅಂಕೇ) ವಿಹಾರಿಣಮನುಕ್ಷಣಮದ್ರಿಜಾಯಾಃ
ತಂ ಕೇವಲಂ ಕಲಭಮದ್ಭುತಮಾಶ್ರಯಾಮಃ |
ನಿತ್ಯಂ ಯ ಏಷ ಬಹುಭಿರ್ನಿಜಸೇವಕಾನಾಂ
ಪ್ರತ್ಯೂಹ-ಪುಞ್ಜ(ಪುಂಜ)ಕವಲೈಃ ಪರಿತೋಷಮೇತಿ ||
(वसन्ततिलकावृत्तम्— “उक्ता वसन्ततिलका तभजा जगौगः ।”)
(ಇದು ವಸನ್ತತಿಲಕಾವೃತ್ತದಲ್ಲಿದೆ.)
पदविभागः—
अङ्के विहारिणम् अनु-क्षणम् अद्रिजा-याः
तं केवलं कलभम् अद्भुतम् आश्रयामः ।
नित्यं यः एषः बहुभिः निज-सेवकानां
प्रत्यूह-पुञ्ज-कवलैः परि-तोषम् एति ॥१॥
ಅಙ್ಕೇ ವಿಹಾರಿಣಮ್ ಅನು-ಕ್ಷಣಮ್ ಅದ್ರಿಜಾಯಾಃ
ತಂ ಕೇವಲಂ ಕಲಭಮ್ ಅದ್ಭುತಮ್ ಆಶ್ರಯಾಮಃ |
ನಿತ್ಯಂ ಯಃ ಏಷಃ ಬಹುಭಿಃ ನಿಜ-ಸೇವಕಾನಾಂ
ಪ್ರತ್ಯೂಹ-ಪುಞ್ಜ-ಕವಲೈಃ ಪರಿ-ತೋಷಮ್ ಏತಿ ||೧ ||
अन्वयार्थः—
अद्रिजायाः (अद्रिः=पर्वतः, तस्मिन् तस्य वा जाता सुता अद्रिजा, तस्याः पार्वत्याः), अङ्के (ऊरौ), अनुक्षणं (क्षणं अनुसृत्य, प्रतिक्षणं), विहारिणं, तं ,केवलम् (कैवल्यस्वरूपं परब्रह्मरूपं), अद्भुतं कलभम् (बाल-गजाननं) आश्रयामः । यः एषः (गणपतिः) नित्यं (स्वस्य)निज-सेवकानां (निष्कपट-भक्तानां) बहुभिः प्रत्यूह-पुञ्ज-कवलैः (विघ्न-समूहाः नामकैः ग्रासैः) परि-तोषम् (सन्तोषं) एति (प्राप्नोति) ॥
ಅದ್ರಿಜಾಯಾಃ (ಅದ್ರಿ=ಪರ್ವತ, ಅದರಲ್ಲಿ ಹುಟ್ಟಿದ ಅಥವಾ ಹಿಮವಂತನ ಮಗಳು ಅದ್ರಿಜೆ, ಅವಳ / ಪಾರ್ವತೀದೇವಿಯ), ಅಙ್ಕೇ (ತೊಡೆಯ / ಅಂಕದ ಮೇಲೆ), ಅನುಕ್ಷಣಂ (ಕ್ಷಣವನ್ನು ಅನುಸರಿಸಿ, ಪ್ರತಿಕ್ಷಣವೂ / ಅನುಕ್ಷಣವೂ), ವಿಹಾರಿಣಂ (ಹೊರಳಾಡುತ್ತಾ ಆಟವಾಡುತ್ತಿರುವ), ತಂ ಕೇವಲಮ್ (ಆ ಕೈವಲ್ಯಮೂರ್ತಿಯೂ), ಅದ್ಭುತಂ ಕಲಭಂ(ಅದ್ಭುತ ಬಾಲಗಜಮುಖನೂ ಆದ ವಿಘ್ನೇಶ್ವರನನ್ನು), ಆಶ್ರಯಾಮಃ (ಆಶ್ರಯಿಸುತ್ತೇವೆ / ಶರಣುಹೊಂದುತ್ತೇವೆ.)| ಯಃ - ಏಷಃ (ಯಾವ ಈ ಗಣಪತಿಯು), ನಿತ್ಯಂ (ನಿತ್ಯವೂ ತನ್ನ), ನಿಜ-ಸೇವಕಾನಾಂ (ನಿಷ್ಕಪಟ ಭಕ್ತರ ),ಬಹುಭಿಃ (ಅಸಂಖ್ಯ), ಪ್ರತ್ಯೂಹ (ವಿಘ್ನ) ಪುಞ್ಜ (ಸಮೂಹಗಳನ್ನು ) ಕವಲೈಃ (ಸುಗ್ರಾಸಭೋಜನವಾಗಿ ಸ್ವೀಕರಿಸಿ),ಪರಿತೋಷಮ್ ಏತಿ(ಅದರಿಂದಲೇ ಸಂತೋಷವನ್ನು ಹೊಂದಿ, ಅವರ ವಿಘ್ನನಿವಾರಕನಾಗುತ್ತಾನೆ.)||
धर्मप्रमाणनिरूपणम् (ಧರ್ಮದ ಮೂಲಪ್ರಮಾಣಗಳು ಯಾವುವು?)
मनुः (२/६)— (ಮನುಸ್ಮೃತಿ ೨/೬)
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥
ವೇದೋऽಖಿಲೋ ಧರ್ಮಮೂಲಂ ಸ್ಮೃತಿಶೀಲೇ ಚ ತದ್ವಿದಾಮ್ |
ಆಚಾರಶ್ಚೈವ ಸಾಧೂನಾಮಾತ್ಮನಸ್ತುಷ್ಟಿರೇವ ಚ ||
तात्पर्यम्— (ತಾತ್ಪರ್ಯ)
समग्रवेदः धर्मस्य मूलप्रमाणम् । वेदार्थविदां स्मृतयः, स्व- शीलं, सदाचारः च धर्मसन्दिग्धे प्रमाणभूतानि भवन्ति । तथा च, सद्भ्यः / साधूनाम् - निजात्मभावः - स्व-अभिमतः - एव धर्मसन्देहे प्रमाणम् - अर्हति ।
ಸಮಗ್ರವೇದವು ಧರ್ಮದ ಮೂಲಪ್ರಮಾಣವು. ವೇದಾರ್ಥ ಬಲ್ಲವರ ಸ್ಮೃತಿ / ನೆನಪುಗಳು, ಅವರ ಶೀಲ / ಚಾರಿತ್ರ್ಯ ಮತ್ತು ಸದಾಚಾರ / ಉತ್ತಮ ನಡತೆ, ಆಚರಣೆಗಳು ಧರ್ಮಸಂದಿಗ್ಧತೆ / ಸಂದೇಹಗಳಲ್ಲಿ ಪ್ರಮಾಣವಾದವುಗಳಾಗುತ್ತವೆ. ಹಾಗೆಯೇ, ಸಜ್ಜನರ / ಸಾಧುಸಂತರ ಆತ್ಮಸಾಕ್ಷಿಗನುಗುಣವಾದ ವಿಚಾರ / ಅಭಿಪ್ರಾಯವೇ ಧರ್ಮಸೂಕ್ಷ್ಮಗಳಲ್ಲಿ ಪ್ರಮಾಣವಾಗುತ್ತದೆ.
व्याख्या—
धर्ममूलं धर्मस्य प्रमाणम् । न केवलं विध्यात्मकः - एव वेदो धर्मप्रमाणं (वैदिक-कर्म-विधि-विधान-सूचना-मात्रः - न) किन्तु, मन्त्र-अर्थ-वादात्मकः - अपि (वेदस्थानां मन्त्राणां अर्थाः धर्मप्रमाणानि) इत्युक्तम्, अखिलः - इति । अथ, यत्र प्रत्यक्षो वेदो नोपलभ्यते तत्र कथम् इति अतः - उक्तं “स्मृतिशीले च तद्विदाम्” इति । तद्विदां वेदार्थविदां स्मृतिः धर्मशास्त्र-इतिहास-पुराणानि; शीलं च धर्ममूलं सद्भिः सम्भावनीयता-हेतुः - आत्म-गुण-सम्पत्-शीलम् । तदुक्तं (तस्मादुक्तं) महाभारते (शां.प.१२४/६८)— “तत्तत्कर्म तथा कुर्याद्येन श्लाघ्येत संसदि । शीलं समासेनैतत्ते कथितं कुरुनन्दन ॥” इति । अत्रोदाहरणं युधिष्ठिरस्य यक्षरूपधारि-धर्मात् स्व-सोदर-अनादरेण नकुलस्य जीवित-वरणम् । तद्विदाम् आचारश्चैव धर्ममूलम् । धर्माधिकार-निमित्त-शौच-आचमनादिलक्षण-क्रियाविशेषः -आचारः । साधूनां परमधार्मिकाणाम् - आत्मन: तुष्टिः मनसः - रुचिः । सा च धर्ममूलम् । प्रमाणान्तर-अगोचरत्वेन धर्मं प्रति संशायितेषु - अर्थेषु यः - धर्मत्वेन मनसे रोचते सः - एव धर्मः - इति - अर्थः ।
यद्यपि धर्मस्य मूलभूतः - अप्रत्यक्षः - वेदः - अस्मदादिभिः न उपलभ्यते तथापि मनु-आदयः उपलब्धवन्तः - इति अनुमीयते । यथा आपस्तम्बः - आह— “तेषाम् उत्सन्नाः (प्रतिपादिताः) पाठाः प्रयोगात् - अनुमीयन्ते”- इति । तथा च प्रत्यक्षो वेदः, (प्रत्यक्षवेदार्थानां) तेषां धर्मप्रमाणम् । अन्येषां (अखिलवेदार्थ-अप्रत्यक्षानां) वेदाः स्मृत्यादिकं च प्रमाणमित्यर्थः ।
याज्ञवल्क्यः (आचारे श्लो.७)—
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक्सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥
सम्यक्सङ्कल्पजः कामः शास्त्र-अविरुद्धं यथा स्वर्गकामेन मया ज्योतिष्टोमयागः कर्तव्यः - इत्यादिः ।
व्यासः—
धर्ममूलं वेदमाहुर्ग्रन्थराशिमकृत्रिमम् ।
तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम् ॥
हारीतः—
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ।
यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥
आपस्तम्बः— (१।२-३)
धर्मज्ञसमयः प्रमाणं वेदाश्चेति ॥
गौतमः— वेदो धर्ममूलम् । तद्विदां च स्मृतिशीले ॥
तेन नित्य-निर्दोष-वेदमूलकत्वाद् - उपनयनादिसंस्कारकर्मः - एव धर्मः । न शाक्य (बुद्ध)-आदि-कल्पित-आगम-मूलक-चैत्यवन्दन-केशोल्लुञ्छनादिः - इति ॥
इति धर्मप्रमाण-निरूपणम् ॥
अथ स्मृतेः प्रामाण्यम्
शङ्खः— वेदमूलाः स्मृतयः ॥
मरीचिः— दुर्बोधा वैदिकाः शब्दाः प्रकीर्णत्वाच्च येऽखिलाः ।
तत्रैत एव दृष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥
मनुः (अ.२)— श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा स्मृतिम् ।
तस्मात्प्रमाणमुभयं प्रमाणैः प्रामितं भुवि ॥
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥
हारीतः— न यस्य वेदा न च धर्मशास्त्रं न वृद्धवाक्यं हि भवेत्प्रमाणम्।
सोऽधर्मकृद्दृष्टिहतो दुरात्मा नात्माऽपि तस्येह भवेत्प्रमाणम् ॥
देवलः— मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः ।
तत्प्रयुक्तप्रयोक्तारो गृह्यकारास्तु मन्त्रतः ॥
अङ्गिराः— प्रमाणानि प्रमाणज्ञैः परिपाल्यानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः ॥
इति स्मृतिप्रामाण्यम् ॥
अथ धर्मनिरूपणम्
हरदत्तः— वाक्कर्मजन्योऽभ्युदयनिःश्रेयसहेतुरपूर्वाख्य आत्मगुणो धर्मः ॥
मनुः— विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यस्तं धर्मं व्यवस्यत ॥ (२।१)
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
तस्मादस्मिंस्त्रये युक्ते नित्यं स्यादात्मवान्द्विजः ॥(१।१०८)
याज्ञवल्क्यः— देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥(१।६)
इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥(१।८)
विश्वामित्रः— यमार्याः क्रियमाणं हि शंसन्त्यागमवेदिनः ।
(शंसन्ति+आगमवेदिनः)
स धर्मो, यं विगर्हन्ति तमधर्मं प्रचक्षते ॥
व्यासः— सत्यं दमस्तपः शौचं सन्तोषो ह्रीः क्षमार्जवम् ।
ज्ञानं शमो दया ध्यानमेष धर्मः सनातनः ॥
बृहस्पतिः— दानं यज्ञः सतां पूजा वेदधारणमार्जवम् ।
एष धर्मः परो ज्ञेयः फलवान्प्रेत्य चेह च ॥
भोगेश्वसक्तिः सततं तथैवात्मावलोकनम् ।
श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुनिः ॥
आपस्तम्बः— (१।२०।६-७)
“न धर्माधर्मौ चरत आवं स्व इति । न देवगन्धर्वा न पितर इत्याचक्षतेऽयं धर्मोऽयं धर्म इति । यत्त्वार्याः क्रीयमाणं प्रशंसन्ति स धर्मो यद्गर्हन्ते सोऽधर्मः ॥”
आवम् इति छान्दसं रूपम् । आवाम् इत्यर्थः । यदि हि धर्माधर्मौ विग्रहवतौ ‘आवाम् ईदृशे स्वः’- इति ब्रुवाणौ चरेताम्, यदि वा देवादयः प्रकृष्टज्ञानाः ब्रूयुः इमौ धर्माधर्मौ इति तदा उपलब्धिः स्यात् ; तदभावात् शिष्टाः यं प्रशंसन्ति सः धर्मः । यद् गर्हन्ते निन्दन्ति वा सः अधर्मः -इति अर्थः ॥
इति धर्मनिरूपणम् ॥
अथ शिष्टलक्षणम्
बौधायनः(१।१।५)— शिष्टाः खलु विगतमत्सरा निरहङ्काराः कुम्भीधान्या अलोलुपाः । दम्भदर्पलोभमोहक्रोधविवर्जिताः ॥ (१।१।५)
तथा च— धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः ।
क्रीडार्थमपि यं ब्रूयुः स धर्मः परमः स्मृतः ॥
Comments
Post a Comment